Srimad Valmiki Ramayanam

Balakanda Sarga 39

Story of Sagara-2 ( contd )!

बालकांड
एकोनचत्वारिंशस्सर्गः

विश्वामित्र वचः श्रुत्वा कथांते रघुनंदनः ।
उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ॥

स॥ विश्वामित्र वचः श्रुत्वा परम प्रीतो रघुनंदनः दीप्तमिवानलं मुनिं उवाच ॥

" Hearing those words of Visvamitra , Rama spoke to that venerable sage who has a glow equal to that of fire God"

श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम् ।
पूर्वको मे कथं ब्रह्मन् यज्ञं वै समुपाहरत् ॥

स॥ (हे) ब्रह्मन् ! मे पूर्वको कथं यज्ञं वै समुपाहरत् ? इमाम् कथं विस्तरेण श्रोतुमिच्छामि । ब्रह्मन् ते भद्रं ( अस्तु)।

' O Great Soul ! How did our ancient people perform the sacrifice? I am interested in hearing the same in detail'.

विश्वामित्रस्तु काकुत् स्थं उवाच प्रहसन्निव ।
श्रूयतां विस्तारो राम सगरस्य महात्मनः ॥

स॥ विश्वामित्रस्तु काकुत् स्थं प्रहसन्निव उवाच , '(हे) राम महात्मनः सगरस्य (कथं) विस्तारो श्रूयता' ॥

Then with a smile the venerable spoke to SriRama. ' O Rama ! Please hear the story of great Sagara in detail'.

शंकर श्वशुरो नाम हिमवान् अचलोत्तमः ।
विंध्यपर्वत मासाध्य निरीक्षेते परस्परम् ॥

स॥ शंकरश्वशुरो हिमवान् नाम अचलोत्तमः विंध्यपर्वत मासाध्य परस्परं निरीक्षेते ॥

' Sankara's faher-in-law Himavan, the best among non-moving things, and Vindhya mountain were looking across to each other'

तयोर्मध्ये प्रवृत्तोs भूत् यज्ञस्स पुरुषोत्तमे ।
स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि ॥

स॥ (हे) पुरुषोत्तमे ! स यज्ञः तयोर्मध्ये अभूत् । (हे) नरव्याघ्र ! स देशो यज्ञकर्मणि प्रशस्तो हि ।

' O Rama ! The sacrifice took place in the land in between these two. That land is well known for the sacrificial activities'

तस्याश्वचर्यां काकुत् स्थ दृढधन्वा महारथः ।
अंशुमान् अकरोत् तात सगरस्य मते स्थितः ॥

स॥ (हे) तात ! काकुत् स्थ ! सगरस्य मते स्थितः तस्य अश्वचर्यां दृढधन्वा महारथः अंशुमान् अकरोत् ॥

' Dear son ! As per the strict orders of Sagara, the valiant Ansuman was in charge of the activities connected with the sacrificial horse'.

तस्य पर्वणि तं यज्ञं यजमानस्य वासवः ।
राक्षसीं तनुमास्थाय यज्ञीयाश्वमपाहरत् ॥

स ॥ तस्य पर्वणि तं यज्ञं वासवः राक्षसीं तनुमास्थाय यजमानस्य यज्ञीय यश्वं अपाहरत् ।

'On one of the auspicious days during the sacrifice, Indra in the garb of a Rakshasa stole the sacrificial horse.'

ह्रियमाणे तु काकुत् स्थ तस्मिन्नश्वे महात्मनः ।
उपाध्याय गणाः सर्वे यजमानमथाब्रुवम् ॥

स॥ (हे) काकुत् स्थ ! तस्मिन्नश्वे ह्रियमाणे तु , सर्वे उपाध्याय गणाः यजमानं अथाब्रुवम् ॥

' Oh Rama ! since the sacrificial horse was stolen, all the Rishis attending on the sacrifices spoke to Sagara who is performing the sacrifice.'

अयं पर्वणि वेगेन यज्ञीयाश्वोs पनीयते ।
हर्तारं जहि काकुत् स्थ हयश्चैवोपनीयताम् ॥

(स) हे काकुत् स्थ ! अयं पर्वणि यज्ञीयाश्वः उपनीयते , जहि हर्तारं वेगेन हयश्चैव उपनीयतां ॥

" O Sagara! on this auspicious day the sacrificial horse was stolen. The one who stole the sacrificial horse should be killed and the sacrificial horse should be brought back. "

यज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नः ।
तत्तथा क्रियतां राजन् यथाsच्छिद्रः क्रतुर्भवेत् ॥

स॥ (यदि) एतत् यज्ञः च्छिद्रं भवेत् सर्वेषां अशिवाय नः , तथा तत् क्रियतां यथा क्रतुः भवेत् अच्छिद्रः ॥

" If there is an obstruction for the sacrifice it is inauspicious to all. Hence do all actions to ensure that such obstruction is removed."

उपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः ।
षष्टिं पुत्त्रसहस्राणि वाक्यमेतदुवाच ह ॥

स॥ तस्मिन् सदसि उपाध्याय वचनं श्रुत्वा (सः) पार्थिवः षष्ठिं सहस्र पुत्राणि एतद् वाक्यं उवाच ।

'Heaing those words of Rishis , the king spoke to his sixty thousand sons.'
गतिं पुत्त्रा नपस्यामि रक्षसां पुरुषर्षभाः ।
मंत्रपूतै र्महाभागै रास्थितो महाक्रतुः ॥

स॥ (हे) पुरुषर्षभाः ! रक्षसां गतिं नपस्यामि ! महाक्रतुः महाभागैः मंत्रपूतैः आस्थितः ।

" Dear Sons ! I have not seen the movements of the Rakshasas. This sacrifice is being performed by great ones knowing all rituals".

तद्गच्छत विचिन्वध्वं पुत्त्रका भद्रमस्तु वः ।
समुद्रमालिनीं सर्वां पृथिवीं अनुगच्छत ॥

स॥ पुत्रका तत् गच्छत , विचिनध्वं पृथिवीं , सर्वां समुद्रमालिनीं अनुगच्छत । वः भद्रं अस्तु ।

" Dear sons ! You proceed and search the whole earth garlanded by high seas".

एकैकयोजनं पुत्त्रा विस्तारमधिगच्छति ।
यावत्तुरग संदर्शः तावत् खनतमेदिनीम् ॥

स॥ यावत् तुरग संदर्शः अधिगच्छति तावत् एकैक योजनं विस्तारं मेदिनीं खनत ।

" Till you find the sacrificial horse you dig every yojana of the earth to search".

तं चैव हयहर्तारं मार्गमाणा ममाज्ञया ।
दीक्षितः पौत्त्रसहितः सोपाध्यायगणो ह्यहम् ।
इहस्थास्यामि भद्रं वो यावत्तुरगदर्शनम् ॥

स॥ हयहर्तारं तं चैव मार्गमाणा ममाज्ञया । अहं पौत्र उपाध्याय गणो सहितः दीक्षितः । इहस्थास्यामि । यावत्तुरग दर्शनं भद्रं वः ।

" As per my orders catch the one who stole the sacrificial horse. Myself along with Rishis and your sons will be continuing the sacrifice. I will be here. May you be safe in your search ".

इत्युक्ता हृष्टमनसो राजपुत्त्रा महाबलाः ।
जग्मुर्महीतलं राम पितुर्वचन यंत्रिताः ॥

स॥ इत्युक्ता राजपुत्त्राः महाबलाः पितुर्वचन यंत्रिताः हृष्ठमनसो महीतलं जग्मुः ।

Having been ordered thus the king's sons were delighted and following the orders of their father went in search of the sacrificial horse.

योजनायामविस्तारं एकैको धरणी तलम्।
भिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर्नखैः ॥

स॥ (हे) पुरुषव्याघ्र ! एकैको वज्रस्पर्शसमैः नखैः योजनायामविस्तारम् धरणीतलं भिभिदुः

'O Rama ! each and every one of them started digging the earth with their nails sharp as the daimond edges'.

शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः ।
भिद्यमाना वसुमती ननाद रघुनंदन ॥

स॥ (हे) रघुनंदना ! सुदारुणैः अशनिकल्पैश्च शूलैः हलैश्च अपि भिद्यमाना वसुमती ननाद ।

' Oh Raghunandana ! As the earth is being dug with spears sharp as thunderbolt, and ploughs a fearful sound emnated'. ,

नागानां वध्यमानानां असुराणां च राघव ।
राक्षसानां च दुर्दर्षः सत्त्वानां निनदोsभवत् ॥

स॥ राघव ! वध्यमानानां सत्वानां नागनां असुराणां च दुर्धर्षः राक्षसानां च निनदो अभवत् ॥

'O Raghava ! while the digging was going on Nagas , Asuras , even the undefeatable Rakshasas and other beings started making sounds out of fear'.

योजनानां सहस्राणि षष्टिं तु रघुनंदन ।
भिभिदुर्धरणीं वीरा रसातलमनुत्तमम् ॥

स॥ (हे) रघुनंदन ! षष्ठिं सहस्राणि वीराः धरणीं योजनानां उत्तमं रसातलं भिभिदुः।

'O Raghunandana ! the sixty thousand bravehearts dug the earth deep into the nether world'.

एवं पर्वत संभाधं जंबूद्वीपं नृपात्मजाः ।
खनंतो नरशार्दूल पर्वतः परिचक्रमुः ॥

स॥ '(हे) नरशार्दूल ! एवं पर्वत संभाधं जंबूद्वीपं नृपात्मजाः खनंतो पर्वतः परिचक्रमुः ।

' Oh Best of men ! the princes who were digging up the earth, which is full of mountains , were moving freely all over those mountains'.

ततो देवास्सगंधर्वाः सासुरासहपन्नगाः ।
संभ्रांत मनसः सर्वे पितामहमुपागमन् ॥

स॥ ततः देवाः गंधर्वा सह असुरासह पन्नगासह मनसः संभ्रांतः पितामहान् उपागमन् ॥

'Then the Devas along with Gandharvas , Asuras and Nagas worried approched Brahma , the father of all.'

ते प्रसाद्य महात्मानं विषण्णवदनस्तदा ।
ऊचुः परम संत्रस्ताः पितामहमुपागमन् ॥

स॥ ते विषण्ण वदनाः परम संत्रस्ताः तदा उपागमन् महात्मानं प्रसाद्य पितामहां ऊचुः ।

'With deep sorrow and fear they first pleased the father and then addressed him in the following manner'.

भगवन् पृथिवीसर्वा खन्यते सगरात्मजैः ।
बहवश्च महात्मानो हन्यंते तलवासिनः ॥

स॥ भगवन् ! सगरात्मजैः पृथिवीं सर्वां खन्यते . बहवश्च महात्मनः तलवाशिनः हन्यंते ॥

" Bhagavan ! The children of Sagara are digging up everything. Many great people living there are being killed".

अयं यज्ञहरोsस्माकं अनेनाश्वोs पनीयते ।
इतिते सर्वभूतानि निघ्नंति सगरात्मजाः ॥

स॥ " अयं अस्माकं यज्ञहरः , अनेन अश्वं उपनीयते " इति सगरात्मजाः सर्वभूतानि निघ्नंति ॥

" Saying ' This one obstructed the sacrifice" or 'This is the one who stole the sacrificial horse', they are killing all living beings."

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्येg
बालकांडे एकोनचत्वारिंशस्सर्गः ॥
समाप्तं ॥

|| Thus ended the thirty ninth sarga of Balakanda in the Valmiki Ramayan ||
||Om tat sat ||


|| Om tat sat ||